
दुर्गादासः महाराष्ट्रराज्यस्य अप्रतिमशूरेषु अन्यतमः यः मोगलराजानां सिंहस्वप्नायते स्म । मोगलराजाः तं हन्तुं सर्वदा प्रयतन्ते स्म । कदाचित् तीर्थयात्रासमये दुर्गादासः कस्यचित् मराठनायकस्य गृहे उषितवान् । सः मराठनायकः मोगलराजस्य सेवकः आसीत् । दुर्गादासं हत्वा प्रभूतं पारितोषिकं प्राप्यते इति विचिन्त्य स्वपत्नीम् उक्तवान् । परन्तु अतिथिरूपेण आगतं देशभक्तं मारयितुं सा अनिच्छां प्रकटयति । तां नुदित्वा यदा मराठनायकः खड्गेन हन्तुम् उद्युक्तः तदा सा धावित्वा तस्य हस्तात् खड्गम् आकृष्य स्व-उरसः भेदनं कृतवती । एतत् दृष्ट्वा सः मराठनायकः दुर्गादासम् उत्थाप्य क्षमां संप्रार्थ्य स्वयमपि आत्मार्पणं कृतवान्
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Durgadas was one of Maharashtra's greatest warriors, feared like a lion in the dreams of Mughal emperors. The Mughals constantly sought to kill him. Once, during a pilgrimage, Durgadas stayed at the house of a Maratha leader, who was a servant of the Mughal emperor. The leader, tempted by the prospect of a great reward, decided to kill Durgadas and shared his plan with his wife. However, she refused to betray a patriot who had come as a guest. Ignoring her objections, the leader raised his sword to strike. In a desperate act, his wife rushed forward, snatched the sword from his hand, and pierced her own chest. Witnessing this, the Maratha leader was overcome with remorse. He helped Durgadas to his feet, begged for forgiveness, and ultimately sacrificed his own life in repentance.