स्थानस्य प्रभावः
05 September 2025

स्थानस्य प्रभावः

बालमोदिनी

About

कस्मिंश्चित् वने चोराः एकस्मिन् कुटीरे वसन्ति स्म । कदाचित् राजभटैः चोराः गृहीताः, कारागारे स्थापिताः च । कदाचित् एकः साधुः वने अटन् तमेव कुटीरम् आश्रितवान् । एकदा वर्षाकाले कश्चन युवकः पत्न्या सह वृष्टितः रक्षणं प्राप्तुं तस्मिन् कुटीरे स्थितवान् । साधोः मनसि दुर्भावना उत्पन्ना । दम्पती गन्तुम् उद्युक्तौ तदा साधुः छुरिकां गृहीत्वा यदा तयोः समीपम् आगतवान् तदा मनसः दुर्भावना अपगता । पुनः यदा कुटीरं प्राविशत् दुर्भावना उत्पन्ना । किमर्थम् एतादृशः व्यवहारः इति चिन्तयन् आसीत् साधुः तावता कुटीरस्य इतिहासं जानन् युवकः उक्तवान् 'चोराणां भवनाभिः एषः कुटीरः कलुषितः अस्ति' इति । अनुक्षणम् एव साधुः तं कुटीरं त्यक्त्वा अन्यत्र गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In a forest, thieves lived in a cottage until royal guards captured and imprisoned them. Later, a sage took shelter there. One rainy day, a young couple sought refuge in the cottage. The sage developed evil thoughts but lost them when he approached them with a knife. However, upon re-entering, his wicked thoughts returned. Confused, he wondered why. The young man, knowing the cottage’s history, said, "This place is tainted by the thieves who lived here." Realizing this, the sage immediately left the cottage.