शिवाजेः औदार्यम्
30 September 2025

शिवाजेः औदार्यम्

बालमोदिनी

About

बर्हानपुरे दरिद्रः केशवशास्त्री पुत्रस्य चिकित्सार्थं धनम् अपेक्षते इति देवं प्रार्थयमाणः आसीत् । तदा एव देवालयात् बहिः कोलाहलं श्रुत्वा ज्ञातवान् यत् आगरादुर्गात् पलायितः शिवाजिमहाराजः, चत्वारः अनुचराः च सन्ति इति । सः अचिन्तयत् यत् 'एनं विषयं यवनाधिकारिणं सूचयामि । तदा यत् पारितोषिकं लभ्यते तेन मम पुत्रं रक्षामि' इति । एतत् सर्वं गृहजनेभ्यः उक्त्वा यदा गृहतः प्रस्थितः तदा तस्य स्नुषा 'हिन्दूनां रक्षणार्थं कथमपि शिवाजिः रक्षणीयः' इति विचिन्त्य, एकाकिनी धावित्वा सर्वं शिवाजिं निवेद्य गृहमागतवती । यदा यवनाः आगताः तदा देवालये कोऽपि न आसीत् । किन्तु शतसुवर्णनाणकैः पूर्णं स्यूतं दृष्ट्वा केशवशास्त्री सन्तुष्टः, तथापि शिवाजेः औदार्यं ज्ञात्वा नितरां लज्जितः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In Burhanpur, the poor Keshav Shastri prayed for money to treat his son. Hearing a commotion outside the temple, he learned that Shivaji Maharaj had escaped from Agra Fort with four companions. Thinking of informing the Mughal authorities to receive a reward, he shared his plan with his family. However, his daughter-in-law, determined to protect Shivaji, ran alone to warn him and returned home. When the Mughals arrived, Shivaji was gone, but Keshava found a bag filled with a hundred gold coins. Keshav Shastri felt satisfied, yet upon realizing Shivaji’s generosity, he was deeply ashamed.