रोटिकाद्वयम्
21 September 2025

रोटिकाद्वयम्

बालमोदिनी

About

कदाचित् पुत्रस्य पुस्तकानां निधानिकातः पिपीलिकाः पङ्क्तिशः आगच्छन्ति स्म । पुस्ताकानि निष्कास्य माता तत्र रोटिकाद्वयम् दृष्टवती । विद्यालयतः आगवन्तं पुत्रं माता अपृच्छत् । तदा म्लानमुखः पुत्रः‌ अवदत् 'इतः परं रोटिकानाम् आवश्यकता नास्ति । विद्यालयस्य मार्गे उपविष्टायै वृद्धायै अहं प्रतिदिनं रोटिकाद्वयं ददामि स्म । ह्यः सा न आसीत् इत्यतः निधानिकायां स्थापितवान् आसम् । अद्य ज्ञातवान् यत् सा वृद्धा मृता' इत्युक्त्वा रोदनम् आरब्धवान् । पुत्रस्य एतादृशं स्वभावं दृष्ट्वा माता अतीव सन्तुष्टा जाता । सः बालकः एव क्रान्तिकारी सुभाषचन्द्रः बसुः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

One day, a line of ants emerged from a boy’s bookshelf. When his mother removed the books, she discovered two rotis inside. Later, when her son returned from school, she asked him about it. With a downcast face, he replied, "I no longer need these rotis. Every day, I used to give them to an old woman sitting by the roadside near my school. But yesterday, she was not there, so I kept them on the shelf. Today, I found out that she has passed away". Saying this, he began to cry. Seeing her son's kind and compassionate nature, his mother felt immense pride. That boy later grew up to be the revolutionary leader Subhash Chandra Bose.