शकटाल: कश्चन भाग्यवादी । पुरुषप्रयत्नात् अपि भाग्यस्य एव श्रेष्ठता अधिका इत्यत्र तस्य विश्वास: । सर्वस्यापि दैवमेव कारणम् इति वदति स्म । किन्तु केचन तादीयम् एतं विश्वासं खण्डयन्ति स्म । कदाचित् स: महावीरं मुनिं दृष्ट्वा तस्य विश्वास: अनुचित: किम् ? इति अपृच्छत् । तत: प्रचिलितेन प्रश्नोत्तरेण शकटालेन ज्ञातं यत् दैवे विश्वास: भवतु किन्तु पुरुषप्रयत्न: कदापि न परित्यक्तव्य: इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Shakaṭāla was a firm believer in fate. He held that destiny was superior to human effort and claimed that everything was caused by divine will. Yet some challenged this belief. Once, upon meeting Mahavira, he asked whether his conviction was justified. Through a thoughtful exchange, Shakaṭāla came to realize that while faith in destiny may remain, human effort must never be abandoned.