निष्ठा
22 September 2025

निष्ठा

बालमोदिनी

About

कदाचित् राज्ञा सयाजिरावेण विदेशयात्रासमये स्वस्य आप्तसहायकत्वेन परिशुद्धः प्रामाणिकः निष्ठावान् च  शिन्धेवर्यः नीतः । राजा प्यारिस्नगरे सुवर्णापणे बहूनि आभरणानि क्रीतवान् इति कारणतः तस्य आपणस्य प्रतिनिधिः आगत्य शिन्धेवर्याय उपायनं दातुं प्रयतते, किन्तु शिन्धेवर्यः तन्निराकरोति । तर्हि भवतः परिशुद्धं व्यवहारं महाराजं वदामि इति यदा वदति प्रतिनिधिः, तदपि निराकरोति शिन्धेवर्यः । तदा प्रतिनिधिः 'निष्ठायाः प्रामाणिकतायाः बलात् एतावतः धनस्य त्यागं कर्तुम् अपि सिद्धाः जनाः सन्ति खलु भारते' इति साश्चर्यं चिन्तयन् तं मनसा अभिनन्दितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

During his foreign travels, King Sayajirao took with him Sindhevaraya, a trusted aide known for his honesty, integrity, and loyalty. While in Paris, the king purchased many gold ornaments from a jewelry shop. Later, a representative from the shop approached Sindhevaraya, offering him a gift as a token of appreciation. However, Sindhevaraya firmly refused. The representative then said, "Ok, at least I will inform the king about your honesty". Even then, Sindhevaraya declined. Amazed by his unwavering integrity, the representative thought to himself, "There are people in India who are so committed to honesty that they are willing to reject even great wealth!" He silently admired and respected Sindhevaraya for his principles.