मातृऋणम्
09 October 2025

मातृऋणम्

बालमोदिनी

About

सुप्रसिद्धः राजा देवव्रतः कदाचित् स्वमातरं पद्मावतीम् अवदत् 'पितुः आज्ञानुसारेण राज्यस्य उत्तरदायित्वं निर्वहन् अस्मि । गुरुणा प्रदत्तायाः शिक्षायाः सदुपयोगं कृतवान् अस्मि । अतः अहं भूमेः, गुरोः, पितुः, मातुः च ऋणात् मुक्तः अस्मि' इति । पुत्रस्य एतादृशीं वार्तां श्रुत्वा पद्मावती अहसत् । अनन्तरं सा एकेनैव उदाहरणेन दर्शयति यत् कथं मातुः ऋणात् मुक्तः भवितुं न अर्हति इति । ततः सः‌ मातुः क्षमां प्रार्थितवान् ।   
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

The renowned king Devavrata once told his mother, Padmavati, "I have fulfilled my responsibilities as per my father's command. I have made good use of the education given by my teacher. Thus, I am free from the debts of the land, my teacher, my father and my mother". Hearing this, Padmavati laughed. She then demonstrated, with a single example, how one can never be free from a mother’s debt. Realizing his mistake, Devavrata humbly sought his mother’s forgiveness.