
कर्णाटकसङ्गीतक्षेत्रे पुरन्दरदासः अतीव प्रसिद्धः । कदाचित् तेन दिनचतुष्टयं नगरान्तरं गन्तव्यम् आपतितम् । अतः तस्य चतुर्थं पुत्रं लघुबालं मध्वपतिं मारुतेः पूजाकार्यं करोतु इत्युक्तवान् । परेद्यवि नैवेद्यविधेः अनन्तरमपि मारुतिः नैवेद्यं न कृतवान् इत्यतः भक्त्या नैवेद्यं स्वीकर्तुं प्रार्थितवान् । मध्वपतेः हठं दृष्ट्वा मारुतिः मुखम् उद्घाटितवान् । मध्वपतिः स्वल्पं स्वल्पं नैवेद्यं मुखे क्षिप्तवान् । मारुतिः अपि शनैः खादितवान् । गृहागतेन पुरन्दरेण ज्ञातं यत् मध्वपतिः नैवेद्यं मारुतिं खादयति इति । तत् साक्षात् दृष्ट्वा पुरन्दरदासस्य नेत्राभ्याम् अश्रूणि अगलन् । सः प्रीत्या पुत्रम् आलिङ्गितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Purandaradasa is highly renowned in Carnatic music. Once, he had to travel to another city for four days. Before leaving, he instructed his youngest son, Madhvapati, to offer worship to Lord Hanuman. The next day, even after the ritual offering, Hanuman did not take the food. Out of devotion, Madhvapati insisted that Hanuman accept it. Seeing the boy’s determination, Hanuman opened his mouth, and Madhvapati slowly fed him. Hanuman gradually ate the offering. When Purandaradasa returned home, he discovered that Madhvapati had fed Hanuman. Witnessing this divine event, tears streamed from his eyes, and he embraced his son with joy.