जीवनपथः
26 September 2025

जीवनपथः

बालमोदिनी

About

कदाचित् कश्चन मनुष्यः बहुभिः दुःखैः पीडितः सन् ईश्वरसमीपं गत्वा उच्चैः आक्रोशम् कृतवान् । तदा ईश्वरः चित्रगुप्तम् आहूय 'भवतः पुस्तकात् एतस्य जीवनपथप्रदर्शकं चित्रं दर्शयतु' इति अवदत् । यत्र यत्र तस्य मनुष्यस्य पदचिह्नानि आसन् तत्र तत्र ईश्वरस्यापि पदचिह्नानि आसन् । कदाचित् यदा सः मनुष्यः दुःखपीडितः सन् चलितुमपि असमर्थः जातः, तदा ईश्वरः स्वस्य स्कन्धयोः तम् आरोप्य चलितवान् इति ज्ञात्वा मनुष्यः भृशं लज्जाम् अनुभूय ईश्वरं क्षमां याचितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A man, overwhelmed by suffering, went to God and cried out in despair. In response, God summoned Chitragupta and asked him to show the path of the man's life from his records. In the depiction, wherever the man's footprints appeared, God's footprints were also present beside them. However, during the times when the man was too burdened to walk, there were no footprints of his own—only God's. Realizing that during his most difficult moments, God had carried him on His shoulders, the man felt deep shame and asked for forgiveness.