
गीतगोविन्दस्य रचयिता जयदेवः सुप्रसिद्धः महाकविः । कदाचित् तीर्थयात्रां कुर्वतः तस्य सम्माननं कृत्वा जनाः तस्मै धनमपि दत्तवन्तः । केचन लुण्ठकाः जयदेवस्य पाणिपादं कर्तयित्वा एकस्मिन् कूपे प्रक्षिप्य धनम् अपहृतवन्तः । तस्मिन् एव मार्गे गच्छता गौडेश्वरेण लक्ष्मणसेनेन मनुष्यस्य ध्वनिः श्रुता । कूपतः जयदेवम् आनाय्य राजधानीं नीतवान् । बहुवारं पृष्टः अपि जयदेवः स्वस्य पाणिपादं कर्तितवतां लुण्ठकानां विषये किमपि न उक्तवान् । तस्य भगवद्भक्तिं साधुस्वभावं च दृष्ट्वा महाराजः तं स्वस्य आस्थानपण्डितम् अकरोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Jayadeva, the renowned poet and composer of the Gita Govinda, once embarked on a pilgrimage. During his journey, people honored him and offered him wealth. However, some robbers severed his hands and feet, threw him into a well, and stole his money. Lakshmanasena, the king of Gauda, was passing by the same route when he heard a voice from the well. He rescued Jayadeva and brought him to the capital. Despite being repeatedly questioned, Jayadeva never revealed the identities of the robbers who had mutilated him. Impressed by his devotion to God and saintly nature, the king appointed him as his court scholar.