
कदाचित् कश्चन युवकः गृहं त्यक्त्वा अन्यत्र गतवान् । मातापितरौ पुत्रस्य अन्वेषणार्थं सर्वविधान् प्रयत्नान् कृतवन्तौ । दश वर्षाणि अतीतानि । कदाचित् पिता काशीयात्राम् अगच्छत् । तत्र गङ्गातटे कस्यचन साधोः समीपे उपविश्य पठन्तं कञ्चित् तरुणं दृष्ट्वा एषः स्वस्यैव पुत्रः इति निश्चित्य तम् आलङ्गितुं तस्य समीपं धावितवान् । किन्तु पुत्रः तं वारयन् 'क्षणं प्रतीक्षताम्' इति यदा अवदत् तदा क्रुद्धः पिता तं गुरुं निन्दितवान् । अनन्तरं पुत्रस्य वचनानि श्रुत्वा गुरुसन्निधेः महत्त्वं च ज्ञात्वा पिता मौनम् आश्रित्वान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A young man once left his home and went elsewhere. His parents searched for him tirelessly, but ten years passed without success. One day, his father traveled to Kashi. On the banks of the Ganges, he saw a young man studying near a sage and immediately recognized him as his own son. Overcome with emotion, he ran to embrace him. However, the son raised his hand to stop him and said, "Please wait a moment". Angered by this, the father criticized the sage, blaming him for keeping his son away. But after listening to his son’s words and understanding the importance of the guru’s presence, the father realized his mistake and fell silent in respect.