Skip to content
Opens in a new window
गुणग्राहिता
04 August 2026

गुणग्राहिता

बालमोदिनी

About

कदाचित् देवलोके गुणानां विषये चर्चा प्रवृत्ता । 'गुणाः भवेयुः किन्तु गुणग्राहिता तु दुर्लभा' इति कश्चन देवः वदति । तदा अपरः देवः वदति 'मानवानां मध्ये अपि गुणग्राहिणः भवन्ति । एकं तु अहं जानामि' इति । तस्य मानवस्य परीक्षां कर्तुं तौ देवौ वेषान्तरं धृत्वा भूलोकं प्रति आगतौ । परीक्षायाम् उत्तीर्णः जातः सः मानवः । ततः देवौ स्वीयं रूपं‌ धृत्वा तं मानवम् आशिषा अनुगृह्य ततः अदृश्यतां गतवन्तौ ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, in heaven, the gods were discussing virtues. One said: “Virtues may exist, but those who truly appreciate them are rare.” Another replied: “Even among humans there are such people—I know one.” To test him, the two gods disguised themselves and came to earth. The man passed their test. Then the gods revealed their true form, blessed him, and disappeared.