
कदाचित् नारदमहर्षिणा कोपाधिक्यात् लक्ष्मीः शप्ता । तेन कारणेन नारदस्य सङ्गीतज्ञानं विलुप्तं जातम् । ततः नारदः पश्चात्तापम् अनुभवन् विष्णुम् उपसर्प्य कृतस्य दोषस्य परिहारम् अपृच्छत् । तदा विष्णुः 'गानबन्धुनामकस्य दिव्योलूकस्य समीपं गत्वा तस्मात् गानं शिक्षेत' इति अवदत् । अनन्यगतिकया नारदः गानबन्धोः समीपं गत्वा प्रवृत्तं सर्वं निवेद्य तदीयं शिष्यत्वम् अङ्गीकृत्य सङ्गीतं शिक्षयितुं प्रार्थितवान् । ततः नारदः गानबन्धुतः सङ्गीतं शिक्षित्वा पुनरपि गानसामर्थ्यं प्राप्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Sage Narada was angered by Goddess Lakshmi and he cursed her. As a result, Narada lost his knowledge of music. Feeling regretful, he approached Lord Vishnu and asked how he could correct his mistake. Vishnu advised him to go to a divine owl named Gānabandhu and learn music from him. With no other option, Narada went to Gānabandhu, explained everything, and humbly requested to become his student. Gānabandhu accepted Narada as a disciple and began teaching him music. Narada learned with devotion and eventually regained his musical abilities. Thus, through humility and effort, Narada restored what he had lost.