
कदाचित् आहारान्वेषणं कुर्वता शृगालेन एकः शशः दृष्टः । शृगालस्य आगमनं दृष्ट्वा शशः 'कथमपि एतं वञ्चयित्वा आत्मानं संरक्षामि' इति अचिन्तयत् । यदा शृगालः समीपम् आगतवान् तदा शशः 'अन्यः एकः विशिष्टः शृगालः एकस्यां गुहायां वसति । सः शृगालं विना अन्यं प्राणिनं न खादति एव' इति अवदत् । तत् श्रुत्वा तं द्रष्टुं गुहां प्रति प्रस्थितवन्तौ । शशः सिंहस्य गुहायाम् अन्तः शृगालं प्रेषितवान् । अनन्तरं किं जातम् इति वक्तव्यं नास्ति खलु ?
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
While searching for food, a fox saw a rabbit. Seeing the fox approaching, the rabbit thought, "I must somehow deceive him and save myself". When the fox came near, the rabbit said, "A special fox lives in a cave nearby. He does not eat any creature except those brought by another fox". Hearing this, they both set off to see him. The rabbit led the fox into a lion's cave. What happened next needs no explanation, right?