अध्यात्ममार्गे
08 March 2026

अध्यात्ममार्गे

बालमोदिनी

About

कश्चन गुरुः दुःखे विद्यमानं भक्तं वदति 'भवान् पुण्यवान्' इति । सन्तोषेण स्थितवन्तं भक्तं तु प्रहरति । तद् दृष्ट्वा नूतनः शिष्यः ज्येष्ठं शिष्यं आचार्यस्य आचरणस्य आन्तर्यं किम् इति पृच्छति । तदा ज्येष्ठः शिष्यः वदति 'यः दुःखे भवेत् सः आत्मना कृतं दोषम् अवगच्छति, अध्यात्ममार्गे अग्रे गच्छति च । यः‌ सन्तोषेण स्थितः अस्ति सः स्वस्य दोषः कः इति न जानाति स्म, ज्ञातुं प्रयासमपि न करोति स्म । अतः एव तं प्रहृत्य तदीयान् लोपान् ज्ञापयित्वा आत्मपरिष्काराय किं किं करणीयम् इति आचार्येण बोधितम्' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A teacher once told a devotee who was in sorrow, “You are virtuous.” But to another devotee who was content, he struck. Seeing this, a new disciple asked a senior disciple about the meaning behind the teacher’s actions. The senior explained: “One who suffers realizes his own faults and moves forward on the spiritual path. But one who remains content does not know his faults, nor does he try to know them. Therefore, the teacher struck him to make him aware of his shortcomings and to guide him toward self-improvement”.